|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.37. अध्यायः 037
Mahabharata - Karna Parva - Chapter Topics
कर्णेन सोपहासं शल्यगर्हणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-37-0x(4933)(56700)
ततः पुनर्महाराज मद्रराजमरिन्दमः।
अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः॥ 8-37-1(56701)
निर्भर्त्सनार्थं शल्य त्वं यत्तु जल्पितवानसि।
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे॥ 8-37-2(56702)
यदि मां देवताः सर्वा योधयेयुः सवासवाः।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात्॥ 8-37-3(56703)
नाहं भीषयितुं शक्यः शुद्धकर्णा महाहवे।
अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे॥ 8-37-4(56704)
नीचस्य बलमेतावत्पारुष्यं यतत्त्वमात्थ माम्।
अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते॥ 8-37-5(56705)
न हि कर्णः समुद्भूतो भयार्थमिह मद्रक।
विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः॥ 8-37-6(56706)
सखिभावेन सौहार्दान्मितत्रभावेन चैव हि।
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्॥ 8-37-7(56707)
राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम्।
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम्॥ 8-37-8(56708)
कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव।
`समयः परिपाल्यो मे तेन जीवसि साम्प्रतम्'॥ 8-37-9(56709)
ऋते शल्यसहस्रेण विजयेयमहं परान्।
मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम्॥ 8-37-10(56710)
शल्य उवाच। 8-37-11x(4934)
आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति।
न ते कर्णसहस्रेण शक्या जेतुं परे युधि॥ 8-37-11(56711)
सञ्जय उवाच। 8-37-12x(4935)
तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा।
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम्॥ 8-37-12(56712)
इदं त्वमेकाग्रमनाः शृणु मद्रजनाधिप।
सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्॥ 8-37-13(56713)
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्।
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने॥ 8-37-14(56714)
तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः।
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत्॥ 8-37-15(56715)
बहिष्कृता हिमवतता गङ्गया च तिरस्कृताः।
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये॥ 8-37-16(56716)
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः।
तान्धर्मबाह्यानशुचीन्बाह्लीकानपि वर्जयेत्॥ 8-37-17(56717)
गोवर्धनो नाम वटः सुभाण्डं नाम पत्तनम्।
एतद्राजन्कलिद्वारमाकुमारात्स्मराम्यहम्॥ 8-37-18(56718)
कार्येणात्यर्थगूढेन बाह्लीकेषूषितं मया।
तत एषां समाचारः संवासाद्विदितो मया॥ 8-37-19(56719)
शाकलं नाम नगरमापगानामनिम्नगा।
चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्॥ 8-37-20(56720)
पानं गुडासवं पीत्वा गोमांसं लशुनैः सह।
अपूपसक्तुमद्यानामाशिताः शीलवर्जिताः॥ 8-37-21(56721)
गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः।
नगरापणवेशेषु बहिर्माल्यानुलेपनाः॥ 8-37-22(56722)
मत्ताः प्रगीतविरुतैः खरोष्ट्रनिनदोपमैः।
अनावृता मैथुने ताः कामचाराश्च सर्वशः॥ 8-37-23(56723)
आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कxxxः।
हेहतेहेहतेत्येवं स्वामिभर्तृहतेति च॥ 8-37-24(56724)
आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः।
तासां किलावलिप्तानां निवसन्कुरुजाङ्गले॥ 8-37-25(56725)
कश्चिद्बाह्लीकदुष्टानां नातिहृष्टमना जगौ।
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी॥ 8-37-26(56726)
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम्।
शतद्रुं नु कदा तीर्त्वा तां च रम्यामिरावतीम्।
गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाः शुभाः स्त्रियः॥ 8-37-27(56727)
मनःशिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काकुकूजिताः।
कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः॥ 8-37-28(56728)
मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः।
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्॥ 8-37-29(56729)
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु।
अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान्॥ 8-37-30(56730)
पथिषु प्रबलो भूत्वा तथा सम्पततोऽध्वगान्।
चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः॥ 8-37-31(56731)
एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु।
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः॥ 8-37-32(56732)
कर्ण उवाच। 8-37-33x(4936)
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः।
येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः॥ 8-37-33(56733)
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्।
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत्॥ 8-37-34(56734)
ततत्र स्म राक्षसी गाति कृष्णचतुर्दशीम्।
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्॥ 8-37-35(56735)
कथं वस्तादृशो गाथाः पुनर्गास्यामि शाकले।
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम्॥ 8-37-36(56736)
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृता।
पलाण्डुगण्डूषयुताः खादन्तश्चेशिकान्बहून्॥ 8-37-37(56737)
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्।
धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम्॥ 8-37-38(56738)
एवं गायन्ति ये मत्ताः शीधुना पीलुकावने।
सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत्॥ 8-37-39(56739)
यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः।
विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत्॥ 8-37-40(56740)
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदन्योप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि॥ 8-37-41(56741)
पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत।
शतद्रुश्च विपाशा च तृतीयैरावती तथा॥ 8-37-42(56742)
चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी।
आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत्॥ 8-37-43(56743)
व्रात्यानां दासमीयानां विदेहानामयज्वनाम्।
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा॥ 8-37-44(56744)
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः।
ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि॥ 8-37-45(56745)
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते।
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः॥ 8-37-46(56746)
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च।
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च॥ 8-37-47(56747)
पात्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः।
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता॥ 8-37-48(56748)
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि॥ 8-37-49(56749)
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले।
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति॥ 8-37-50(56750)
पञ्चनद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्।
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्॥ 8-37-51(56751)
बाह्लीका नाम हीकश्च विपाशायां पिशाचकौ।
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः॥ 8-37-52(56752)
ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः॥ 8-37-53(56753)
कारस्करान्माहिषकान्करम्भान्कटकालिकान्।
कर्करान्वीरकान्वीरा उन्मत्तांश्च विवर्जयेत्॥ 8-37-54(56754)
इति तीर्थानुसञ्चारी राक्षसी काचिदब्रवीत्।
एकरात्रमुषित्वेह महोलूखलमेखला॥ 8-37-55(56755)
आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम्।
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः॥ ॥ 8-37-56(56756)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-37-8 एतदेव त्रयं व्याचष्टे राज्ञश्चेत्यादिना॥ 8-37-17 पञ्चानां वक्ष्यमाणानाम्। सिन्धुः षष्ठी यासाम्। अन्तरमवकाशमाश्रिताः॥ 8-37-18 गोवर्धनः गवां छेदनस्थानम्॥ 8-37-20 वृत्तं चरित्रम्॥ 8-37-23 अनावृताः स्वपरपुरुषविवेकहीनाः॥ 8-37-24 सूक्तानि विनोदवचनानि। हेहते भोलिङ्गताडिते xxxक्रोशे द्वित्वम्। संधिश्छान्दसः। स्वामिहते भर्तृहते इति च तद्वत्॥ 8-37-25 पर्वसु उत्सवदिनेषु आक्रोशन्त्यः गालयन्त्यः। तासां पतिरिति शेषः॥ 8-37-29 खरादियानैः॥ 8-37-30 मथितं तक्रम्॥ 8-37-31 भूयसः बहून्॥ 8-37-38 वाराहं विड्वाहजम॥ 8-37-37 सप्तत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|